मस्करी

सुधाव्याख्या

मस्कनम् । ‘मस्क गतौ’ (भ्वा० आ० से०) । बाहुलकादरः । मस्करो ज्ञानं गतिर्वास्यास्ति । ‘मस्करमस्करिणौ’ (६.१.१५४) इति इनिः । यद्वा मस्करो वेणुरस्यास्ति । इनिः (५.२.११५) । यद्वा मा कर्तुं कर्म निषेद्धे शीलमस्य । ‘मस्करमस्करिणौ–’ (६.१.१५४) इति साधुः । यद्वा मकुर इव शुद्धमन्तःकरणमस्यास्ति । प्राग्वन्निपातः । यद्वा मङ्कते । ‘मकि मण्डने’ (भ्वा० आ० से०) । बाहुलकादरः । आगमशास्त्रस्यानित्यत्वान्न नुम् । मकरो निधिभेदोऽस्यास्ति । प्राग्वन्निपातः ॥