ब्राह्मणः

सुधाव्याख्या

ब्रह्मणोऽपत्यम् । तस्यापत्यम्' (४.१.९२) इत्यण् । ‘अन्’ (६.४.१६७) इति टिलोपो न । ब्रह्माधीते । 'तदधीते तद्वेद’ (४.२.५९) इत्यण् वा । ब्रह्म जानाति । ‘शेषे' (४.२.९२) इत्यण् वा ॥ ‘वत्रजस्त्वनमो विप्रो वर्णज्येष्ठः कचो (ठो) द्विजः । पुनरुक्तजन्मा स्यात् इति त्रिकाण्डशेषः । सूत्रकण्ठः पुमान् विप्रे खञ्जरीटकपोतयोः’ (इति मेदिनी) ।