वाडवः

सुधाव्याख्या

‘वडवा कुम्भदास्यश्वा स्त्रीविशेषो द्विजन्मनाम्' इति रभसः । वडवाऽश्वाकुम्भदास्योः स्त्रीविशेषे द्विजस्त्रियाम्' इति विश्वः) । वडवायां जातः । तत्र जातः (४.३.२५) इत्यण् । वाडव इव वा । वाडनम् । 'वाडृ आप्लाव्ये (भ्वा० आ० से०) । घञ् (३.३.१८) । वालनम् । वल निरूपणे' चुरादिर्वा । घञ् (३.३.१८) । डलयोरेकत्वम् । वाडोऽस्यास्ति । ‘अन्यत्रापि (न्येभ्योऽपि) दृश्यते’ (वा० ५.२.१०९) इति वः । वाडं वाति । कः (३.२.३) वा । ‘वाडवं करणे । स्त्रीणां घोटिकौघे नपुंसकम् । पाताले न स्त्रियां पुंसि ब्राह्मणे वडवानले' इति मेदिनी ॥