आश्रमः

सुधाव्याख्या

चत्वारोऽवयवा यस्य । ‘संख्याया अवयवे तयप्' (५.२.४२) । चतुरवयवसमुदाये । आश्राम्यन्त्यत्र । अनेन वा । ‘श्रमु तपसि' (दि० प० से०) । घञ् (३.३.१९) । 'नोदात्तोपदेशस्य-' (७.३.३४) इति वृद्धिर्न । यद्वा आसमन्ताच्छ्रमोऽत्र । स्वधर्मसाधनक्लेशात् । आश्रमो ब्रह्मचर्यादौ वानप्रस्थे वने मठे । अस्त्रियाम्’ (इति मेदिनी) ॥