आषाढः

सुधाव्याख्या

पेति । आषाढी पूर्णिमा प्रयोजनमस्य । ‘विशाखाषाढादण् मन्थदण्डयोः’ (५.१.१०) इत्यण् । ‘आषाढो व्रतिनां दण्डे मासे मलयपर्वते । स्त्री पूर्णिमायाम्’(इति मेदिनी) ॥पलाशस्य विकारः । ‘पलाशादिभ्यो वा’(४.३.१४१) इत्यञ् । व्रते ब्रह्मचर्ये ।