पवित्रः

सुधाव्याख्या

पेति । पवते । ‘पूङ् पवने’ (भ्वा० आ० से०) । पुनाति । ‘पूञ् पवने’ (क्र्या० उ० से०) वा । ‘अशित्रादिभ्य इत्रोत्रौ’ (उ० ४.१७३) । ‘पवित्रं वर्षणे कुशे । ताम्रे पयसि च क्लीबं मेध्ये स्यादभिधेयवत्’ (इति मेदिनी) ॥