पाषण्डः

सुधाव्याख्या

पेति । पापं सनोति । ‘षणु दाने’ (त० उ० से०) । सनति । ‘षण सम्भक्तौ’ (भ्वा० प० से०) वा । ‘ञमन्ताड्डः’ (उ० १.११४) । पृषोदरादिः (३.३.१०९) मूर्धन्यमध्यः । कवर्गद्वितीयमध्यपाठे तु पाखण्डयति । ‘खडि भेदने’ (चु० प० से०) । अच् (३.१.१३४) । ‘पालनाच्च त्रयीधर्मः पाशब्देन निगद्यते । तं खण्डयन्ति ते यस्मात् पाखण्डास्तेन हेतुना’॥