अभिशस्तिः

सुधाव्याख्या

अभिशंसनम् । ‘शंसु स्तुतौ याचने च’ (भ्वा० प० से०) । क्तिन् (३.३.९४) । ‘अभिशस्तिः पुनर्लोकापवादे प्रार्थितेऽपि च’इति हैमः । स्वामी तु-अभिषसनम् । ‘षस स्वप्ने’ (अ० प० से०) । क्तिन् (३.३.९४) । सुषामादित्वात् (८.३.९८) ‘पूर्वपदात्’ (८.३.१०६) इति वा षत्वम् । (अभिषस्तिः) । इत्यवोचत् ॥