याचना

सुधाव्याख्या

याचेः चुरादि (स्वार्थिक) ण्यन्तात् ‘ण्यास-’ (३.३.१०७) इति युच् ॥


प्रक्रिया

धातुः -


टुयाचृँ याच्ञायाम्
याच् - उपदेशेऽजनुनासिक इत् 1.3.2, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
याच् + णिच् - हेतुमति च 3.1.26
याच् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
याच् + इ + युच् - ण्यासश्रन्थो युच् 3.3.107
याच् + युच् - णेरनिटि 6.4.51
याच् + यु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
याच् + अन - युवोरनाकौ 7.1.1
याचन - णेरनिटि 6.4.51
याचन + टाप् - अजाद्यतष्टाप्‌ 4.1.4
याचन + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
याचना - अकः सवर्णे दीर्घः 6.1.101
याचना + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
याचना + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
याचना - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68