अध्येषणा

सुधाव्याख्या

अध्येषणम् । इषेः प्रग्वद्युच् (वा० ३.३.१०७) ॥


प्रक्रिया

धातुः -


इषुँ इच्छायाम्
इष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अधि + इष् + युच् - इषेरनिच्छार्थस्य (3.3.107) । वार्तिकम् ।
अधि + इष् + यु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अधि + इष् + अन - युवोरनाकौ 7.1.1
अधि + इषण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
अधि + एषण - पुगन्तलघूपधस्य च 7.3.86
अध्येषण - इको यणचि 6.1.77
अध्येषण + टाप् - अजाद्यतष्टाप्‌ 4.1.4
अध्येषण + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अध्येषणा - अकः सवर्णे दीर्घः 6.1.101
अध्येषणा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अध्येषणा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अध्येषणा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68