कल्पः

सुधाव्याख्या

केति । कल्पते । अनेन वा । ‘कृपू सामर्थ्ये’ (भ्वा० आ० से०) । अच् (३.१.१३३) । घञ् (३.३.१८) वा । ‘कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने’ (इति मेदिनी)॥