विधिः

सुधाव्याख्या

वेधनम् । ‘विध विधाने’ (तु० प० से०) । ‘इगुपधात्कित्’ (उ० ४.१२०) इतीन् । यद्वा विधानम् । अनेन वा । धाञः (जु० प० अ०) । ‘उपसर्गे घोः किः’ (३.३.९२) । ‘विधिर्ना नियतौ काले विधाने परमेष्ठिनि’ (इति मदिनी) ॥