स्रुवः

सुधाव्याख्या

स्रवति । 'स्रु स्रवणे' (भ्वा० प० अ०) । ‘स्रुव कः' (उ० २.६१) । ‘स्रुवः पुमान् । स्रुवो द्वयोहमपात्रे शल्लकीपूर्वयोः स्त्रियाम्' (' इति मेदिनी) ॥ चिक् च' (उ० २.६२) इति स्रवतेश्चिक्प्रत्ययः । स्रुक् चान्ता ॥ एते च स्रुचो विशेषाः स्त्रियः स्त्रीलिङ्गाः । स्रुवस्तु पुंलिङ्गः । मुकुटस्तु-अन्येभ्योऽपि दृश्यते’ (३.२.१७८) इति क्विप् । दृशिग्रहणाद्विध्यन्तरोपसंग्रहणार्थत्वात् । धातोश्चुगागमः इति व्याख्यत् । तन्न । चिक् च' (उ० २.६२) इति सूत्रस्य जागरूकत्वात् । क्विबविधानाच्च । यदपि–‘स्रुचः इति बहुवचननिर्देशाद्वहुत्वम्-इति । तदपि न भेदापेक्षया स्रुचः षष्ठ्यन्तत्वात् । यदपि-ध्रुवासाहचर्याद्द्वयोः स्त्रीत्वमेव इति । तदपि न । ’स्त्रियः’ इति विशेषविधेः सत्वात् । यथा स्रुवः’ इति रूपभेदात्पुंस्त्वे सिद्धे ‘ना’ इति पुंस्त्वविधिः तथा ‘स्त्रिय:’ इति स्त्रीत्वविधिर्बोध्यः । नच– स्रुचो विधानाभावे पृष्ट्यानुवादः कथम् । ‘चण्डांशोः पारिपार्श्वकाः, ‘मुष्ट्या तु बद्धया’ इत्यादिवदुपपत्तेः । "स्त्रियाः इत्यस्य षष्ठ्यन्तत्वकल्पनं व्यर्थम्॥ क्वचित् ‘स्रुवः’ इति षष्ठ्यन्तपाठः । स्रवति । क्विब्वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घोऽसम्प्रसारणं च' (उ० ६.५७) इति क्विब्दीर्घौ । (स्रुः) ॥ यज्ञपात्राणां पृथक् पृथक् ।