ध्रुवा

सुधाव्याख्या

ध्रुवेति । ध्रुवति । ‘ध्रुव स्थैर्ये (तु० प० से०) । ‘इगुपध (३.१.१३५) इति कः । यद्वा ‘ध्रु स्थैर्ये (तु० प० अ०) । अच् (३.१.१३४) कुटादित्वात् (१.२.१) डित्वम् । उवड् (६.४.७७) । 'ध्रुवः शङ्कौ हरे विष्णौ वटे चोत्तानपादजे । वसुयोगा भिदोः पुंसि क्लीबं निश्चिततर्कयोः । स्त्री मूर्वाद्योः शालपर्ण्यां गीतिसुरभेदयोस्त्रिषु । संतते शाश्वते च' (इति मेदिनी) ॥