उपाकृतः

सुधाव्याख्या

उपेति । उपाक्रियते स्म । 'कृञ् हिंसायाम् (स्वा० उ० अ०) । क्तः (३.२.१०२) । ‘कूपाकृतोऽध्वरहते पशौ नोपद्रुते त्रिषु' इति विश्वमेदिन्यौ ॥ अभितो मन्त्रयित्वा । 'मत्रि गुप्तभाषणे' (चु० प० से०) । क्त्वा (३.४.२१) । ल्यप् (७.१.३७) । हतो हन्तुमारब्धः ।