कव्यम्

सुधाव्याख्या

कृयते पितृभ्यः । ‘कु शब्दे’ (अ० प० अ०) । अचो यत्’ (३.१.९७)–‘कबृ वर्णे’ (भ्वा० आ० से०)'पोरदुपधात्(३.१.९८) इति यत्-इति मुकुटस्य प्रमादः । तस्य चित्ररूपपरस्य प्रकृतेऽन्वयासम्भवात् । ’श्विता वर्णे’ (भ्वा० आ० से०) ‘नील वर्णे’ (भ्वा० प० से०) इत्यादाविव वर्णस्य रूपार्थकत्वात् ॥ देवानामिदम् । पितॄणामिदम् । तस्येदम्’ (४.३.१२०) इत्यण् । पित्र्ये इति पाठे पितरो देवता यस्य । 'वाय्वृतु-'(४.२.३१) इति यत् । देवान्नं हव्यम् । पित्रन्न कव्यम् ।