पायसः

सुधाव्याख्या

पयसि संस्कृतम् । ‘संस्कृतं भक्षाः’ (४.२.१६) इत्यण् । पयसा इति तु मुकुटस्य प्रमादः । ‘तत्रोद्धृतम्-’ (४.२.१४) इत्यतः ‘तत्र’ इत्यनुवृत्तेः । ‘पायसः श्रीवासे च पायसं परमात्रके इति हैमः । 'पायसस्तु क्लीबपुंसो श्रीवासपरमान्नयोः’ (इति मेदिनी) ॥