समितिः

सुधाव्याख्या

समयन्त्यस्याम् । 'इ गतौ” (भ्वा० प० अ०) । क्तिन् (३.३.९४) । सह विद्यमाना मिलितैर्वा मितिः प्रमाऽस्याम्, इति वा । ‘समिति: सम्पराये स्यात्सभायां सङ्गमेऽपि च' (इति मेदिनी) ॥