गोष्ठी

सुधाव्याख्या

गावोऽनेका वाचस्तिष्ठन्त्यस्याम् । घञर्थे कः (वा० ३.३.१०८) ।‘अम्बाम्ब-'(८.३.९७) इति षत्वम् । गौरादि ङीष् (४.१.४१) । 'गोष्ठी सभासंलापयोः स्त्रियाम्' (इति मेदिनी) ॥


प्रक्रिया

धातुः -


ष्ठा गतिनिवृत्तौ
स्था - धात्वादेः षः सः 6.1.64
गो + जस् + स्था + क - घञर्थे कविधानम् (3.3.58) । वार्तिकम् ।
गो + स्था + क - सुपो धातुप्रातिपदिकयोः 2.4.71
गो + स्था + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गो + स्थ् + अ - आतो लोप इटि च 6.4.64
गोष्ठ - अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः 8.3.97
गोष्ठ + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
गोष्ठ + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गोष्ठ् + ई - यस्येति च 6.4.148
गोष्ठी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गोष्ठी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गोष्ठी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68