सभा

सुधाव्याख्या

सह भान्त्यस्याम् । ‘भा दीप्तौ’ (अ० प० अ०) । भिदाद्यङ् (३.३.१०६) । 'समाना भान्त्यस्याम्' इति वा । 'समानस्य’ (६.३.८४) इति योगविभागात् 'सभा (२.४.२३) इति निर्देशाद्वा समानस्य सः । ‘सभा सामाजिके गोष्ठ्यां द्यूतमन्दिरयोरपि' (इति मेदिनी) ॥