गलः

सुधाव्याख्या

गिलति । ‘गॄ निगरणे’ (तु० प० से०) । अच् (३.१.१३४) । ‘अचि विभाषा’ (८.२.२१) इति वा लः । गीर्यतेऽनेन । ‘पुंसि-’ (३.३.११८) इति घः । यद्वा गलति । ‘गल अदने’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘गलः कण्ठे सर्जरसे’ (इति मेदिनी) ॥