कृकाटिका

सुधाव्याख्या

कृकं कण्ठमटति । ‘अट गतौ’ (भ्वा० प० से०) । इन् (उ० ४.११८) । स्वार्थे कन् (ज्ञापि० ५.४.५) । ण्वुल् तु परत्वादणाबाधान्न प्राप्नोति ॥


प्रक्रिया

धातुः -


अटँ गतौ
अट् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अट्+ इन् - सर्वधातुभ्य इन् (४.११८) । उणादिसूत्रम् ।
अट्+ इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कृक + अम् + अटि - उपपदमतिङ् 2.2.19
कृक + अटि - सुपो धातुप्रातिपदिकयोः 2.4.71
कृकाटि - अकः सवर्णे दीर्घः 6.1.101
कृकाटि + सु + कन् - न सामिवचने 5.4.5
कृकाटि + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
कृकाटि + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कृकाटिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
कृकाटिक + आ - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कृकाटिका - अकः सवर्णे दीर्घः 6.1.101
कृकाटिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कृकाटिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कृकाटिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68