कंधरा

सुधाव्याख्या

कं शिरो धारयति । ‘संज्ञायां ‘भृतॄवृजि-’ (३.२.४६) इति खच् । ‘खचि ह्रस्वः’ (६.४.९४) । यद्वा धरति । ‘धृञ् धारणे’ (भ्वा० उ० अ०) । अच् । कं शिरसो धरा कंधरा मता (इति विश्वः) ॥


प्रक्रिया

धातुः -


धृञ् धारणे
धृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
क + अम् + धृ + णिच् - हेतुमति च 3.1.26, उपपदमतिङ् 2.2.19
क + धृ + णिच् - सुपो धातुप्रातिपदिकयोः 2.4.71
क + धृ + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
क + धार् + इ - अचो ञ्णिति 7.2.115
क + धार् + इ + खच् - संज्ञायां भृतॄवृजिधारिसहितपिदमः 3.2.46
क + धार् + खच् - णेरनिटि 6.4.51
क + धार + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
क + मुम् + धार - अरुर्द्विषदजन्तस्य मुम् 6.3.67
क + म् + धार - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कंधार - नश्चापदान्तस्य झलि 8.3.24
कन्धार - अनुस्वारस्य ययि परसवर्णः 8.4.58
कन्धर - खचि ह्रस्वः 6.4.94
कन्धर + टाप् - अजाद्यतष्टाप्‌ 4.1.4
कन्धर + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कन्धरा - अकः सवर्णे दीर्घः 6.1.101
कन्धरा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कन्धरा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कन्धरा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68