वल्लूरः

सुधाव्याख्या

वल्लते, वल्ल्यते वा ‘वल्ल संवरणे’ (भ्वा० आ० से०) । खर्जादित्वात् (उ० ४.९०) ऊरः । ‘वल्लूरं स्याद्वनक्षेत्रे, वाहनोषरयोरपि । वल्लरा त्रिषु संशुष्कमांसशूकरमांसयोः’ इति मेदिनी ॥


प्रक्रिया

धातुः -


वल्लँ संवरणे सञ्चरणे च
वल्ल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वल्ल् + ऊर - खर्जिपिञ्जादिभ्य ऊरोलचौ (४.९०) । उणादिसूत्रम् ।
वल्लूर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वल्लूर + अम् - अतोऽम् 7.1.24
वल्लूरम् - अमि पूर्वः 6.1.107