पललम्

सुधाव्याख्या

पलति, पल्यते वा । अनेन वा । ‘पल गतौ’ (भ्वा० प० से०) । ‘वृषादिभ्यश्चित्’ (उ० १.१०६) इति कलः । ‘पललं तिलमिश्रे स्यात् पललं पिशितेऽपि च’ इति शाश्वतः । ‘पललं पङ्कमांसयोः । तिलचूर्णे पललस्तु राक्षसे’ इति हैमः ॥