वस्नसा

सुधाव्याख्या

अथेति । वस्ते शरीरम् । ‘वस आच्छादने’ (अ० आ० से०) । ‘धापॄवस्यज्यतिभ्यो नः’ (उ० ३.६) । वस्त्रं चर्म स्यति । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥


प्रक्रिया

धातुः -


वसँ आच्छादने
वस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वस् + न - धापॄवस्यज्यतिभ्यो नः (३.६) । उणादिसूत्रम् ।
षो अन्तकर्मणि
सो - धात्वादेः षः सः 6.1.64
वस्न + अम् + सो + क - आतोऽनुपसर्गे कः 3.2.3, उपपदमतिङ् 2.2.19
वस्न + सो + क - सुपो धातुप्रातिपदिकयोः 2.4.71
वस्न + सो + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वस्न + सा + अ - आदेच उपदेशेऽशिति 6.1.45
वस्न + स् + अ - आतो लोप इटि च 6.4.64
वस्नस + टाप् - अजाद्यतष्टाप्‌ 4.1.4
वस्नस + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
वस्नसा - अकः सवर्णे दीर्घः 6.1.101
वस्नसा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वस्नसा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वस्नसा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68