अन्त्रम्

सुधाव्याख्या

अन्नमिति । अमति । अनेन । वा । ‘अम गतौ’ (भ्वा० प० से०) । ‘सर्वधातुभ्यष्ट्रन्’ (उ० ४.१५९) । ‘अमिचिमिदिशसिभ्यः क्रः’ (उ० ४.१६४) । संज्ञापूर्वकत्वान्न दीर्घः । अन्तति । ‘अति बन्धने’ (भ्वा० प० से०) ष्ट्रन् (उ० ४.१५९) वा । –‘अमियमिमिदेस्त्रक्’-इति मुकुटोपन्यस्तं सूत्रं त्वपाणिनीयम् ॥