यकृत्म्

सुधाव्याख्या

यमनम् । सम्पदादिः (वा० ३.३.१०८) । ‘गमादीनाम्-’ (वा० ६.४.४०) इति मलोपः । आगमानित्यत्वान्न तुक् । यं संयमं करोति क्विप् (३.२.७६) । तुक् (६.१.७१) ॥ ‘करण्डा तु महास्नायुः, कालेयं कालखण्डके’ । इति रभसः ।


प्रक्रिया

धातुः -


यमँ अपरिवेषणे
यम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यम् + क्विप् - संपदादिभ्यः क्विप् (3.3.108) । वार्तिकम् ।
यम् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यम् - वेरपृक्तस्य 6.1.67
- गमादीनामिति वक्तव्यम् (6.4.40) । वार्तिकम् ।
डुकृञ् करणे
कृ - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
य + अम् + कृ + क्विप् - क्विप् च 3.2.76
य + कृ + क्विप् - सुपो धातुप्रातिपदिकयोः 2.4.71
य + कृ + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यकृ - वेरपृक्तस्य 6.1.67
यकृ + तुक् - ह्रस्वस्य पिति कृति तुक् 6.1.71
यकृत् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यकृत् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
यकृत् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यकृत् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68