छातः

सुधाव्याख्या

छयति स्म । ‘छो छेदने’ (दि० प० अ०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । छायते स्म वा । क्तः (३.२.१०२) । ‘शाछोरन्यतरस्याम्’ (७.४.४१) इत्वम् । ‘शातः’ इति वा पाठः । तत्र ‘शैङ् गतौ’ (भ्वा० आ० अ०) । क्तः (३.२.१०२) । ‘दुर्बले निशिते स्यातां शितशाताविमौ त्रिषु’ इति तालव्यादौ रभसः ॥