परिपूर्णता

सुधाव्याख्या

परितः पूर्यते स्म । ‘पूरी आप्यायने’ (दि० आ० से०) । ‘गत्यर्था–’ (३.४.७२) इति क्तः । ‘रदाभ्याम्-’ (८.२.४२) इति निष्ठानत्वम् । परिपूर्णस्य भावः । तल् (५.१.११९) ॥


प्रक्रिया

धातुः -


पूरीँ आप्यायने
पूर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परि + पूर् + क्त - गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च 3.4.72
परि + पूर् + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
परि + पूर् + न - रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42
परि + पूर्ण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
परिपूर्ण + ङस् + तल् - तस्य भावस्त्वतलौ 5.1.119
परिपूर्ण + तल् - सुपो धातुप्रातिपदिकयोः 2.4.71
परिपूर्ण + त - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
परिपूर्णत + टाप् - अजाद्यतष्टाप्‌ 4.1.4
परिपूर्णत + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
परिपूर्णता - अकः सवर्णे दीर्घः 6.1.101
परिपूर्णता + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
परिपूर्णता + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परिपूर्णता - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68