शय्या

सुधाव्याख्या

शेति । शय्यतेऽत्र । ‘शीङ् स्वप्ने’ (अ० आ० से०) । ‘संज्ञायां समज-’ (३.३.९९) इति क्यप् । ‘अयङ् यि’ (७.४.२२) इत्ययङ् । ‘शय्या स्वाच्छयनीयेऽपि गुम्फनेऽपि च योषिति’ (इति मेदिनी) ॥