वर्तिः

सुधाव्याख्या

वर्त्यते । ‘वृतु वर्तने’ (भ्वा० आ० से०) । ण्यन्तः । ‘अच इः’ (उ० ४.१३९) । ‘वर्तिर्भेषजनिर्माणे नयनाञ्जनलेखयोः । गात्रानुलेपनी दीपदशादीपेषु योषिति’ (इति मेदिनी) ॥