यक्षकर्दमः

सुधाव्याख्या

केति । कर्पूरादिभिः समभागैः । यक्षप्रियः कर्दमः ॥ ‘कर्पूरागुरुकस्तूरीकक्कोलघुसृणानि च । एकीकृतमिदं सर्वं यक्षकर्दम इष्यते’ इति व्याडिः । ‘कुङ्कुमागरुकस्तूरीकर्पूरं चन्दनं तथा । महासुगन्धमित्युक्तं नामतो यक्षकर्दमः’ इति ‘धन्वन्तरिः’ ।


प्रक्रिया

धातुः -


यक्षप्रियः कर्दमः ।
यक्ष + सु +कर्दम + सु - शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (2.1.60) । वार्तिकम् ।
यक्षकर्दम - सुपो धातुप्रातिपदिकयोः 2.4.71
यक्षकर्दम + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
यक्षकर्दम + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यक्षकर्दम + रु - ससजुषो रुः 8.2.66
यक्षकर्दम + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यक्षकर्दमः - खरवसानयोर्विसर्जनीयः 8.3.15