अङ्गदः

सुधाव्याख्या

अङ्गं दयते, दायति, द्यति वा । ‘देङ् पालने’ (भ्वा० आ० अ०) । ‘दैप् शोधने’ (भ्वा० प० अ०) वा । ‘दो अवखण्डने’ (दि० प० अ०) वा । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘अङ्गदः कपिभेदे ना केयूरे तु नपुंसकम् । अङ्गदा याम्यदिग्दन्तिहस्तिन्यामपि योषिति’ (इति मेदिनी) ॥