अङ्गुलीयकः

सुधाव्याख्या

अङ्गुलीति । अङ्गुलौ भवम् । ‘जिह्वामूलाङ्गुलेश्छः’ (४.३.६२) । स्वार्थे कन् (ज्ञापि० ५.४.५) । –‘कपिलकादित्वात् (वा० ८.२.१८) । अङ्गुलीयकम्’ -इति मुकुटः । तन्न । तत्र रेफानुवादेन लविधानात् । लानुवादेन रेफविधानाभावात् । ‘वालमूल-’ (वा० ८.२.१८) इति वक्तुं शक्यत्वात् ॥