आवापकः

सुधाव्याख्या

आवेति । आ उप्यते । ‘डुवप्’ (भ्वा० उ० अ०) । कर्मणि घञ् (३.३.१९) । स्वार्थे (ज्ञापि० ५.४.५) संज्ञायां (५.३.७५) वा कन् ॥


प्रक्रिया

धातुः -


डुवपँ बीजसन्ताने गर्भाधाने छेदने बीजतन्तुसन्ताने मुण्डबीजोप्त्योः वपने घर्षणे तन्तुनिर्माणे च
वप् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
आङ् + वप् + घञ् - अकर्तरि च कारके संज्ञायाम् 3.3.19
आ + वप् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
आ + वाप - अत उपधायाः 7.2.116
आवाप + कन् - न सामिवचने 5.4.5
आवाप + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आवापक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आवापक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आवापक + रु - ससजुषो रुः 8.2.66
आवापक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आवापकः - खरवसानयोर्विसर्जनीयः 8.3.15