चञ्चुः

सुधाव्याख्या

चञ्चुरिति । चञ्चति । ‘चञ्चु गतौ’ (भ्वा० प० से०) । बाहुलकादुः । ‘चञ्चूश्चञ्चुस्तथा त्रोटिः’ इति हलायुधः । मित्रय्वादौ (१) निपातितः । अपष्ट्वादित्वादित्यन्ये—इति मुकुटः । तन्न । गणद्वयस्योज्ज्वलदत्तादिष्वदर्शनात् । ‘चञ्चुः पञ्चाङ्गुले त्रोट्याम्’ इति हैमः ॥