छदः

सुधाव्याख्या

छाद्यतेऽनेनाङ्गम् । ‘छद संवरणे’ (चु० उ० से०) । ण्यन्तः । ‘पुंसि-’ (३.३.१२१) इति घः । ‘छादेर्घे-’ (६.४.९६) इति ह्रस्वः । ‘गरुत्पक्षौ नरौ छदम्’ इति वोपालितात्क्लीबमपि ॥