पक्षः

सुधाव्याख्या

पक्षयति । पक्ष्यते वा । ‘पक्ष परिग्रहे (चु० प० से०) । अच् (३.१.१३४) । घञ् (३.३.१९) वा । ‘पक्षस्तु मासार्धे गृहसाध्ययोः । चुल्लीरन्ध्रे बले पार्श्वे वर्गे केशात्परश्चये । पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे’ इति (मूर्धन्यषान्तेषु) हैमः । सान्तोऽपि । ‘पक्षसी च स्मृतौ पक्षौ’ इति शुभाङ्कः ॥