शारङ्गः

सुधाव्याख्या

अथेति । शारयति, शार्यते, वातपादिना । ‘शॄ हिंसायाम् (क्र्या० प० से०) । ण्यन्तः । ‘तरत्यादिभ्यश्च' (उ० १.१२०) इत्यङ्गच् ।-शारेरङ्गच् – इति मुकुटः । तन्न । उज्ज्वलदत्तादिवृत्तिष्वेतत्सूत्रादर्शनात् । ‘शारङ्गश्चातके ख्यात: शबले हरिणेऽपि च' इति तालव्यादावजयः ॥ सरति । ‘सृवृञोर्वृद्धिश्च' (उ० १.११२) इत्यङ्गच् । –‘सृ गतौ' (भ्वा० प० अ०) । णिच् (३.१.२६) पूर्ववत् । अण् (३.२.१) वृद्धिश्च इति मुकुटश्चिन्त्यः । अणोऽप्रसङ्गात् । ‘सुवृञोः' इति सिद्धत्वाच्च । णिच: प्रयोजनाभावाच्च । ‘चातके हरिणे पुंसि सारङ्गः शबले त्रिषु' इति दन्त्यादौ रभसात् । यद्वा सारमङ्गमस्य । शकन्ध्वादिः (वा० ६.१.९४) । ‘सारङ्गः पुंसि हरिणे चातके च मतङ्गजे । शबले त्रिषु' (इति मेदिनी) ॥