दार्वाघाटः

सुधाव्याख्या

दारु आहन्ति । ‘दारावाहनोऽणन्त्यस्य च ट:-' (वा० ३.२.४९) । वासार्थं दारु आघाटयति । ‘घट संघाते' चुरादिः । अण् (३.२.१) । सुभूतिस्तु चिन्त्यः । घट्टिना विगृहीतत्वात् । 'काष्ठकुट्टः शतच्छदः' इति त्रिकाण्डशेष: ॥


प्रक्रिया

धातुः -


हनँ हिंसागत्योः
हन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दारु + आङ् + हट् + अण् - उपपदमतिङ् 2.2.19, दारावाहनोऽणन्तस्य च टः संज्ञायाम् । (३.२.४९) वार्तिकम् ।
दारु + आ + हट् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
दारु + आ + घट् vअ - हो हन्तेर्ञ्णिन्नेषु 7.3.54
दारु + आ + घाट् + अ - अत उपधायाः 7.2.116
दार्वाघाट - इको यणचि 6.1.77
दार्वाघाट + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दार्वाघाट + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दार्वाघाट + रु - ससजुषो रुः 8.2.66
दार्वाघाट + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दार्वाघाटः - खरवसानयोर्विसर्जनीयः 8.3.15