वसुकः

सुधाव्याख्या

वसति । ‘वस निवासे' (भ्वा० प० अ०) । ‘शॄस्वृस्निहि-' (उ० १.१०) इत्युः । स्वार्थे कन् (५.३.७५) । 'वसुकं रोमके पुंसि शिवमल्ल्यर्कपर्णयोः' (इति मेदिनी) । -बाहुलकात् ‘भृमृ-' इत्युः - इति मुकुटः । तन्न । उक्तसूत्रे वसतेर्ग्रहणात् ॥