आस्फोतः

सुधाव्याख्या

आ स्फोटयति । ‘स्फुटिर् विशरणे' (भ्वा० प० से०) । अच् (३.१.१३४) । पृषोदरादिः (६.१.१०९) । ‘आस्फोतस्तु पुमानर्कपर्णे स्यात् कोविदारके । आस्फोता गिरिकर्ण्यां च वनमल्ल्यां च योषिति' (इति मेदिनी) ॥