चित्रकः

सुधाव्याख्या

चित्तं बुद्धिं त्रायते । ‘त्रैङ् पालने’ (भ्वा० आ० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । स्वार्थे कन् (५.३.७५) । ‘चित्रकं तिलके ना तु व्याघ्रभिच्चञ्चुपाठिषु (इति मेदिनी) ॥


प्रक्रिया

धातुः - त्रैङ् पालने


त्रै - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
चित्त + अम् + त्रै + क - आतोऽनुपसर्गे कः 3.2.3
चित्त + त्रै + क - सुपो धातुप्रातिपदिकयोः 2.4.71
चित्त + त्रै + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
चित्त + त्रा + अ - आदेच उपदेशेऽशिति 6.1.45
चित्त + त्र् + अ - आतो लोप इटि च 6.4.64
चित्त्र + सु + कन् - संज्ञायां कन् 5.3.75
चित्त्र + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
चित्त्रक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
चित्त्रक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चित्त्रक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चित्त्रक + रु - ससजुषो रुः 8.2.66
चित्त्रक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चित्त्रकः - खरवसानयोर्विसर्जनीयः 8.3.15