जया

सुधाव्याख्या

जयेति । जयति । 'जि जये' (भ्वा० प० अ०) । पचाद्यच् । (३.१.१३४) । 'जया जयन्तीतिथिभित्पथ्योमातत्सखीषु च। अग्निमन्थे ना जयन्ते विजये च युधिष्ठिरे' इति मेदिनी ॥