वैजयन्तिका

सुधाव्याख्या

विजयन्तस्येयम् । तस्येदम्' (४.३.१२०) इत्यण् । स्वार्थे कन् (५.३.७५) । यद्वा वैजयन्ती पताकेव । ‘इवे प्रतिकृतौ' (५.३.९६) इति कन् ॥


प्रक्रिया

विजयन्त + ङस् + अण् - तस्येदम् 4.3.120
विजयन्त + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
विजयन्त + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
विजयन्त् + अ - यस्येति च 6.4.148
वैजयन्त - तद्धितेष्वचामादेः 7.2.117
वैजयन्त + कन् - संज्ञायां कन् 4.3.147
वैजयन्त + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वैजयन्तक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
वैजयन्तक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
वैजयन्तका - अकः सवर्णे दीर्घः 6.1.101
वैजयन्तका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वैजयन्तका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वैजयन्तका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
वैजयन्तिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44