वयस्था

सुधाव्याख्या

वयो यौवनं तिष्ठत्यनया । घञर्थे कः (३.३.५८) । ‘वयस्था तु स्त्रियां ब्राह्मीगुडूच्यामलकीषु च । सूक्ष्मैलायां च काकोल्यां पथ्यायां तरुणे त्रिषु' ॥ कायस्थाऽपि । ‘कायस्था तु हरीतक्यामलक्योश्च प्रकीर्तिता' इति रभसः ॥