तुषः

सुधाव्याख्या

तुष्यति । ‘तुष तुष्टौ' (दि० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । -‘घञर्थे कः' (वा० ३.३.५८) –इत्युक्तिश्चिन्त्या । परिगणनात् ‘धान्यत्वचि तुषः पुंसि विभीतकतरावपि' इति मूर्धन्यान्ते रुद्रः ॥