काचस्थाली

सुधाव्याख्या

काचस्य कार्ष्ण्यस्य स्थाली पात्रम् ॥ स्वामी तु ‘काला’ ‘स्थाली' इति पठति। कालो वर्णोऽस्या अस्ति । अर्शआद्यच् (५.२.१२७) । अजादि: (४.१.४) । ‘काला तु कृष्णवृन्ताख्यामञ्जिष्ठानीलिकासु च' ॥ तिष्ठति । ‘ष्ठा गतिनिवृत्तौ' (भ्वा० प० अ०) । ‘स्थाचतिमृजेरालज्वालजालीयचः' (उ० १.११६) । ‘स्थाली स्यात्पाटलोखयोः' ॥