पाटलिः

सुधाव्याख्या

अथेति । पाति । क्विप् (३.२.१७८) । टलति । ‘टल वैक्लव्ये' (भ्वा० प० से०) । ‘सर्वधातुभ्य इन्' (उ० ४.११८) । पाश्चासौ टलिश्च ॥


प्रक्रिया

धातुः - पा रक्षणे , टलँ वैक्लव्ये


पा रक्षणे
पा + क्विप् - अन्येभ्योऽपि दृश्यते 3.2.178
पा + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पा - वेरपृक्तस्य 6.1.67
टलँ वैक्लव्ये
टल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
टल् + इन् - सर्वधातुभ्य इन् (४.११८) । उणादिसूत्रम् ।
टलि - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पा + सु + टलि + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
पाटलि - सुपो धातुप्रातिपदिकयोः 2.4.71
पाटलि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पाटलि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पाटलि + रु - ससजुषो रुः 8.2.66
पाटलि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पाटलिः - खरवसानयोर्विसर्जनीयः 8.3.15